पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८६
शिवकेशादिपादान्तवर्णनस्तोत्रम्


पत्युः सात्यन्तमन्तर्विल-
सतु सततं मन्थराकन्धरा वः ॥ १४
वतेन्द्रोदन्तलक्ष्म्याश्चिरम-
धरमहाकौस्तुभस्यान्तराले
स्रोत्थानां प्रार्थयन् यः स्थिति-
मचलभुवे वारयन्त्यै निवेशम् ।
प्रायुक्त वाशिषो यः प्रतिपद-
ममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन् गलं वो हृदयमल-
मलं क्षालयेत् कारकूटः॥१५
प्रौढप्रेमाकुलायादृढतरप-
रिरम्भेषु पर्वेन्दुमुरव्याः
पार्वत्याश्चारुचामीकरवलय-
पदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततम-
विहितं कर्म निर्मूलयेत्त-

Bruha-10