पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८५
शिवकेशादिपादान्तवर्णनस्तोत्रम्


द्युत्या दीप्तेन्दुकुन्दच्छविर-
मलतरप्रोन्नताग्रामुदं वः ॥१०
न्यक्कुर्वन्नुवराभृग्निमघन-
समयोद्धुष्टमेघौघघोषं
स्फूर्जद्वायुस्थितोरुध्वनित
मपि परब्रह्मभूतो गभीर्ः।
सुध्यक्तो व्यक्तमूर्तेः प्रकटित-
करणः प्राणनाथस्य सत्याः
प्रीत्या व: संविदध्यात्फलविक-
लमलं जन्मनादः सनाद: ॥११
भासा यस्य त्रिलोकी लसति-
परिलसत्फेनबिन्दुर्णवान्त-
र्व्यमग्ने वाति गौरस्तुलित-
सुरसरिद्वारिपूरप्रसारः।
पीनात्मा दन्तभाभिर्भृशमह-
हुहकाराविभीमः सदेष्टां