पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शिवपादादिकेशान्तस्तुतिः २६९

ऊरू गौरीकराम्भोरुहसर-
ससमामर्दनानन्दभाजा-
वूरू दूरीक्रियेतां दुरित-
मुपचितं जन्मजन्मान्तरे नः ॥ १९
आमुक्तानर्घरत्नप्रकर-
करपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धन दुग्धद्युति-
निचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरि-
तपरिपाकायमाने नितम्बे
नित्यं नानर्तु चित्तं मम निखि-
लजगत्स्वामिनस्सोममौलेः ॥ २०
सन्ध्याकालानुरञ्जद्दिनक-
रसरुचा कालधौतेन गाधं
व्यावद्धस्निग्धवर्णस्सरस-
मुदरबन्धेन पीतोपमेन।