पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६८

बृहत्स्तोत्ररत्नाकरे प्रथमभागः
शम्भोस्सम्भावनीये पदक-
मलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नस्समग्रं सकल-
सुखकरे नूपुरे पूरयेताम् ॥ १७
अङ्गे शृङ्गारयोनेस्सपदि
शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधि-
युगमथ न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममर-
परिषदामन्तरं क्रूरय-
त्तत्सङ्घातं चारुजङ्घायुग-
मखिलपते रंहसां संहरेन्नः ॥ १८
जानुद्वन्द्वेन मीनध्वज नृप-
रसमुद्रोपमानेन साकं
राजन्तौ राजरम्भाकरिक-
रकनकस्तम्भसम्भावनीयौ