पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२५८ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:

विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिका...॥ ४
धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं काशिका...॥ ५
रत्नपादुकाप्रभामिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिका ...॥ ६
अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं
दृष्टिपातनष्टपापजालमुग्रपापशासनम् ।
अष्टसिद्धिदायकं कपालमालिकन्धरं
काशिका...॥ ७
भूतसङ्गनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
कोशिका ... ॥ ८