पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
गणपतिसहस्रनामस्तोत्रम्


चराचरपिता चिन्तामणिचर्वणलालसः।
छन्दश्छन्दोवपुश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः।
जपो जपपरो जप्यो जोह्वासिंहासनप्रभुः॥
झलज्झल्लोलसद्दानझङ्कारिभ्रमराकुलः।
टङ्कारस्फारसंरावानुकारिमणिनूपुरः॥
तापत्रयनिवारी च सर्वमन्त्रैकसिद्धिदः।
ढक्कानिनादमुदितो ढौको ढुण्ढविनायकः।
तत्वानां परमस्तत्वज्ञेयस्तत्वनिरूपितः।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरो जङ्गमो जगत्।
दक्षयज्ञप्रथमो दाता दानवमोहनः।
दयावान्दिव्यविभवो दण्डहृद्दण्डनायकः।
दन्तप्रभिन्नाभ्रमलो दैत्यवारणदारणः।
ष्ट्रालग्नद्विपघटो देवार्थ नृगजाकृतिः।