पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४१
शिवापराधक्षमास्तोत्रम्

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥१४
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥शिवापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥