पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३९
शिवापराधक्षमास्तोत्रम्


हव्यं ते लक्षसंख्यैर्हुतवह-
वदने नार्पितं बीजमन्त्रैः।
नो तप्तं गाङ्गतीरे व्रतजप-
नियमै रुद्रजाप्यैर्न वेदैः क्षन्त ... ॥ ८
स्थित्वा स्थाने सरोजे प्रणव-
मयमरुत्कुण्डले सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटित-
विभवे ज्योतिरूपे पराख्ये।
लिङ्गज्ञे ब्रह्मवाक्ये सकल-
तनुगतं शङ्करं न स्मरामि क्षन्त ...॥ ९
नमो निस्सङ्गशुद्धस्त्रिगुण-
विरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदित-
अवगुणो नैव दृष्टः कदाचित् ।
उन्मत्ताऽवस्थया त्वां विगत-
कलिमलं शङ्करं न स्मरामि क्षन्त... ॥१०