पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अथ शिवापराधक्षमापणस्तोत्रम् ।।

आदो कर्मप्रसङ्गात् कलयति
कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति
नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति
नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव
शिव भोः श्रीमहादेव शम्भो ॥ १
बाल्ये दुःखातिरेकान्मललुलित-
वपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुण-
जनिता जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः
शङ्करं न स्मरामि क्षन्त ...॥ २