पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
गणपतिसहस्रनामस्तोत्रम्


इन्दीवरदळ्श्यामः इन्दुमण्ड्लनिर्मलः ।
इन्द्रप्रिय इडाभाग इडाधामेन्दिराप्रियः॥६८
इक्ष्वाकुविघ्नविध्वंसी इति कर्तव्यतेप्सितः।
ईशानमौळिरीशान ईशानसुत ईशघः।
ईषणात्रयकल्पान्तः ईहामात्रविवर्जितः।
उपेन्द्र उडुभृन्मौळि रुडेरकबलिप्रियः।
उन्नतानन उत्तुङ्ग उदारस्रिदशाग्रणीः।
ऊर्जस्वानुज्ज्वलतनुः ऊहापोहदुरासदः॥
ऋग्यजुस्सामसम्भूतिऋद्धिप्रवर्तकः।
स्वभक्तविघ्ननाशश्च सुरद्विट्छक्तिलोपकृत्।
विमुखार्चानाविलुप्तश्रीं र्लूताविस्फोटनाशनः।
एकारपीठमध्यस्थ एकपादकृतासनः।
एजिताखिलदैत्यश्रीः एजिताखिलसंश्रयः।
ऐश्वर्यनिधिरैश्वर्याइहिकामुष्मिकप्रदः।
ऐरँअदसमोन्मेष ऐरावतनिभाननः॥