पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

हृदये स्मृत एव धीमते
नमतेऽभीष्टफलप्रदो भवान् ॥ ८
सहसैव भुजङ्गपाशवा-
न्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे
गतजीवस्य पुनः किमौषधैः ॥ ९
सविषैरिव भीमपन्नगै-
र्विषयैरेभिरलं परिक्षतम् ।
अमृतैरिव सम्भ्रमेण मा-
मभिषिञ्चाशु दयावलोकनैः ॥ १०
मुनयो बहवोऽद्य धन्यतां
गमिताः स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मा-
मवसन्नं ननु पश्य चक्षुषा ।। ११
प्रणमाम्यथ यामि चापरं
शरणं कं कृपणाभयप्रदम् ।