पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कृपयाऽभयदेन चक्षुषा
सकलेनेश विलोकयाशु नः॥ ४
त्वदनुस्मृतिरेव पावनी
स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो
ननु कीदृक्सितशर्करान्वितम् ।। ५
सविषोऽप्यमृतायते भवा-
ञ्छवमुण्डाभरणोऽपि पावनः
भव एव भवान्तकः सतां
समदृष्टिर्विषमेक्षणोऽपि सन् ॥ ६
अपि शूलधरो निरामयो
दृढवैराग्यरतोऽपि रागवान् ।
अपि भक्ष्यचरो महेश्वर-
श्चरितं चित्रमिदं हि ते प्रभो ॥ ७
वितरत्यभिवाञ्छितं दृशा
परिदृष्टः किल कल्पपादपः ।