पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१३
शिवमहिम्नस्तोत्रम्

असितगिरिसमं स्यात्कज्जलं सिन्धुपाने
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं.
तदपि तव गुणानामीश पारं न याति ॥ ३२
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
र्ग्रथितगुणमहिन्नो निर्गुणस्येश्वरस्य ।
सकलगुणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तः स्तोत्रमेतच्चकार ।। ३३
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुःपुत्रवान्कीर्तिमांश्च ।। ३४
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५
दीक्षादानं तपस्तीर्थं ज्ञानं यागादिकाः क्रिया: ।
महिम्नस्स्तवपाठस्य कलां नार्हति षोडशीम् ॥ ३६