पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः

रौद्रीमुद्रितपादाब्जःहुम्बीजस्तुङ्गशक्तितः॥३०
विश्वादिजननत्राणः स्वाहाशक्तिस्सकीलकः।
अमृताब्धिकृतावासः मदघूर्णितलोचनः।
उच्छिष्टगण उच्छिष्ठगणेशो गणनायकः।
सार्वकालिकसंसिद्धिः नित्यशैवदिगम्बरः।
अनपायोऽनन्तदृष्टिरप्रमेयोऽमृजरामरः।
अनाविलोऽप्रतिरथो अच्युतोऽमृताक्षरः।
अप्रतर्क्योऽक्ष्स्योऽजय्यो अनाथश्च अनामयः।
अमोघसिद्धिरद्वैतो अघोरोऽप्रतिमाननः।
अनाकारोभिभूम्यग्निबलहा व्यक्तलक्षणः।
आघारपीठ आधार आधाराध्र्यवर्जितः।
आस्वुवाहन केत्वाशापूरकाखुमहारणः।
इक्षुचागरमध्यस्थः इक्षुभक्षणलालसः।
इक्षुचापातिरेकश्रीः इक्षुचापनिषेवितः।
इन्द्रगोपसमानश्रीः इन्द्रनीलसमद्युतिः।