पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९९
वेदपादस्तवः

सुपुत्त्रकामा अपि ये मनुष्या
युवानमेनं गिरिशं यजन्ताम् ।
यतस्वयम्भूर्जगतां विधाता
हिरण्यगर्भस्समवर्तताग्रे ॥ ११२
अलं किमुक्तैर्बहुभिरसमीरितं
समस्तमस्याश्रयणेन सिध्यति ।
पुरैनमाश्रित्य हि कुम्भसम्भवो
दिवा न सक्तं पलितो युवाजनि ॥ ११३
अन्यं परित्यज्य ममाक्षिभृङ्गा
सर्वे सदैनं शिवमाश्रयध्वम् ।
आमोदवानेव मृदुश्शिवोऽयं
स्वादुः किलायं मधुमान् उतायम् ॥
भविष्यसि त्वं प्रतिमाविहीना
विनिर्जिताऽशेषनरामरा च ।
नमोऽस्तु ते वाणि महेशमेनं
स्तुहि श्रुतं गर्तनदं युवानम् ॥