पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९७
वेदपादस्तवः

वेदपादस्तवः
अपारसंसारसमुद्रमध्ये
निमग्नमुत्क्रोशमनल्परागम् ।
मामक्षयं पाहि महेश जुष्ट-
मोजिष्ठया दक्षिणयैव रातिम् ।। १०४
स्मरन् पुरा सञ्चितपातकानि
खरं यमस्याभिमुखं यमारे।
बिभेमि मे देहि यथेष्टमायु-
र्यदि क्षतायुर्यदि वा परेतः ॥ १०५
सुगन्धगस्सुन्दरभस्मगौरै-
रनन्तभोगैर्मृदुलैरघोरैः।
इमं कदालिङ्गति मां पिनाकी
स्थिरोभरङ्गैः पुरुरूप उग्रः॥ १०६
क्रोशन्तमीशः पतितं भवाब्धौ
नागास्यमण्डूकमिवातिभीतम् ।
कदानु मां रक्ष्यति देवदेवो
हिरण्यरूपस्स हिरण्यसन्दृक् ॥