पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८९
वेदपादस्तवः

हर पाहि परान्नं मां पुरुनामन् पुरुष्टुत ॥ ५४
कीलोकैर्यत्कृतं पुष्टैर्नावमानं सहामहे ।
देवेश तव दानेभ्यो भूरिदा भूरिदेहिनः ॥ ५५
लोकानामुपपन्नानां गर्विणामीश पश्यताम् ।
अस्मभ्यं क्षेत्रमायुश्च वसुस्सार्हं तथा भर ॥ ५६
याच्ञादौ महतीं लज्जामस्मदीयां घृणानिधे।
त्वमेव वेत्सि नस्तूर्णमिवग् स्तोतृभ्य आभर ।। ५७
जाया माता पिता चान्ये मा द्विषन्त्यमतिं कृशम् ।
देहि मे महतीं विद्यां राधा विश्वपुषा सह ॥ ५८
अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु ।
मेरुधन्वन्नशक्तेभ्यो बलं देहि तनूषुणः ॥ ५९
लब्धारिषसहस्रस्य नित्यमिष्टवियोगिनः ।
हृद्रोगं मम देवेश हरिमाणं च नाशय ॥ ६०
ये ये रोगा: पिशाचा वा नरा देवाश्च मामिह ।
बाधन्ते देव तान् सर्वान् निबाधस्व महानसि ॥ ६१
त्वमेव रक्षितास्माकं नान्यः कश्चन विद्यते ।