पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अथ वेदपादस्तवप्रारम्भः ॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।। १
कुण्डलीकृतनागेन्द्रं खण्डेन्दुकृतशेखरम् ।
पिण्डीकृतमहाविघ्नं दुण्डिराजं नमाम्यहम् ॥ २
मातामहमहाशैलं महस्तदपितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरिवारणम् ॥ ३
ऋषय ऊचुः-
पुण्डरीकपुरं प्राप्य जैमिनिमुनिसत्तमः ।
किं चकार महायोगी नूतनो वक्तुमर्हसि ॥ ४
सूत उवाच:-
भगवान् जैमिनिर्धीमान्पुण्डरीकपुरे पुरा ।
महर्षिसिद्धगन्धर्वयक्षकिन्नरसेविते ॥ ५
नृत्यद्धिरसरस्सङ्घैर्दिव्यगानैश्च शोभिते ।
नृत्यन्तं परमीशानं ददर्श सदसि प्रभुम् ॥ ६