पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
श्रीशिवसहस्रनामस्तोत्रम्


नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२
इति श्रीमन्महाभारते आनुशासनिकपर्वणि दानधर्मपर्वणि
श्रीशिवसहस्रनामस्तोत्ररत्नकथनं नाम सप्तदशोऽध्यायः
श्रीशिवसहस्रनामस्तोत्ररत्नं समाप्तम् ॥