पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७१
श्रीशिवसहस्रनामस्तोत्रम्

सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ।
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १०१
स यज्ञारिस्स कामारिर्महादंष्ट्रो महायुधः ।
बहुधाऽनिन्दितस्सर्वश्शङ्करश्चन्द्रशेखरः ॥१०२
अमरेशो महादेवो विश्वदेवस्सुरारिहा ।
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ॥१०३
अजैकपाच्च कापाली त्रिशङ्कुरजितशिशवः ।
धन्वन्तरिर्धूमकेतुस्स्कन्दो वैश्रवणस्तथा ॥१०४
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ।
प्रभावस्सर्वगो वायुरर्यमा सविता रविः ॥ १०५
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ।
विभुर्वर्णविभावी च सर्वकामगुणावहः ॥ १०६
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः।
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥ १०७
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ।
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ॥ १०८