पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६७
श्रीशिवसहस्रनामस्तोत्रम्

वसुवेगो महावेगो मनोवेगो निशाचरः।
सर्ववासी श्रियावासी उपदेशकरोऽकरः ॥ ६९
मुनिरात्मा निरालोकस्सम्भग्नश्च सहस्रदः ।
पक्षी च प्लक्षरूपश्च अतिदीप्तो विशां पतिः॥७०
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः।
वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः ॥७१
सिद्धयोगी महर्षिश्च सिद्धार्थस्सिद्धसाधकः।
भिक्षुश्च भिक्षुरूपश्च विपगो मृदुरव्ययः ॥७२
महासेनो विशाखश्च षष्टिभागो गवां पतिः ।
वज्रहस्तश्व विष्कम्भी चमूस्तम्भन एव च ॥७३
वृत्तवृत्तकरस्तालो मधुर्मधुकलोचनः ।
वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ॥७४
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ।
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ॥ ७५
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः।
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ॥ ७६