पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

योगिनामपि यो योगी कारणानां च कारणम् ।
यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः।। २९
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु ॥३०
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ।
स्थिर: स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ॥ ३१
सर्वात्मा सर्वविख्यातः सर्वस्सर्वकरो भवः ।
जटी चर्मी शिखण्डी च सर्वाङ्गस्सर्वभावनः ॥ ३२
हरश्च हरिणाक्षश्व सर्वभूतहरः प्रभुः।
प्रवृत्तिश्च निवृत्तिश्च नियतश्शाश्वतो ध्रुवः ॥३३
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ।
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ॥३४
उन्मत्तवेषः प्रच्छन्नस्सर्वलोकप्रजापतिः।
महारूपो महाकायो वृषरूपो महायशाः ॥३५
महात्मा सर्वभूतात्मा विश्वरूपो महाहनु ।
लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः ॥३६