पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
गणपतिसहस्रनामस्तोत्रम्

ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः॥२२
कुलाचलांसस्सोमार्कघण्टो रुद्रशिरोघरः।
नदीनदभुजस्सर्पांगुळिकस्तारकानखः॥२३
भ्रूमध्यसंस्थितकरो ब्र ह्मविद्यामदोत्कटः।
व्योमनाभः श्रीहृदयो मेरुष्ठोऽर्णवोदरः॥
कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः।
पृथ्वीकटिस्सृष्टिलिङ्गः शैलोरूदग्रजानुकः॥२५
पाताळजङ्घो मुनिपत्काङ्गुष्ठस्त्रयीतनुः।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः।
हृत्पद्मकर्णिकाशायी वियत्केळिसरोरुहः।
सद्धक्तध्याननिगळो पूजावारिनिवारितः॥२७
प्रतापी काश्यपसुतः गणपो विटपी बली।
यशस्वी धार्मिकस्स्वोजाः प्रमथः प्रमथेश्वरः॥
चिन्तामणिद्वीपपातिः कल्पद्रुमवनालयः।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः॥२९