पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६१
श्रीशिवसहस्रनामस्तोत्रम्

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२
ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः।
यतस्तण्डि: पुरा प्राप तेन तण्डिकृतोऽभवत् ॥२३
स्वर्गाश्चैवात्र भूलोकं तण्डिना ह्यवतारितः ।
सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ॥२४
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥२५
तेजसामपि यत्तेजस्तपसामपि यत्तपः ।
शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः॥२६
दान्तानामपि यो दान्तो धीमतामपि या च धीः ।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७
यज्ञानामपि यो यज्ञशिशवानामपि यश्शिवः ।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥२८