पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ।
दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ।
गिरेस्सारं यथा हेम पुष्पसारं यथा मधु ॥ १४
घृतात्सारं यथा मण्डं तथैतस्सारमुद्धृतम् ।
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५
प्रयत्नेनाधिगन्तव्यं धार्ंय च प्रयतात्मना ।
माङ्गळ्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६
इदं भक्ताय दातव्यं श्रद्धयाऽनास्तिकाय च ।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥१७
यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सह पूर्वैस्सहात्मजः ॥ १८
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥१९
यं ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमां गतिम् ।
पवित्रं मङ्गळं मेध्यं कल्याणमिदमुत्तमम् ॥२०