पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५९
श्रीशिवसहस्रनामस्तोत्रम्

श्रुतैस्सर्वत्र जगति ब्रह्मलोकावतारितैः।
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तैस्सनातनम् ॥५
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ।
वरयैनं भवं देवं भक्तस्वं परमेश्वरम् ॥६
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ।
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ॥ ७
युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिमध्यमान्तानि गम्यन्ते न सुरैरपि ॥८
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव ।
किन्तु देवस्य महतस्सङ्क्षिप्तार्थपदाक्षरम् ॥९
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥१०
यदा तेनाभ्यनुज्ञातस्स्तुतो वै स तदा मया ।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥११
नाम्नां किञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ।
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२