पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीशिवसहस्रनामस्तोत्रम् ॥

वन्दे शंभुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
वासुदेवः-
ततस्स प्रयतो भूत्वा मम तात युधिष्ठिर ।
प्राञ्जलिः प्राह विप्रर्षिनामसंग्रहमादितः ॥
उपमन्यु:-
ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसंभवैः।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः॥
महद्भिर्विहितैस्सत्यैस्सिद्धैस्सर्वार्थसाधकैः।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥
यथोक्तैस्साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथम स्वर्ग्यं सर्वभूतहितं शुभम् ॥