पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

यो वै पठेद्गुहस्यैनं वेदान्तस्तवमादरात् । स्कान्दाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः॥१०९

 स्कन्दस्यैनं वेदपादस्तवं यो भक्त्या नित्यं श्राव- देद्वा पठेद्वा । भूयासुस्ते तस्य मर्त्यस्य शीघ्रं ये ये कामा दुर्लमा मर्त्यलोके ॥११०

॥ इति स्कन्दवेदपादस्तवः॥