पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

भीता वयं महासेन पथि दुर्गे वने यतः ।
चोरव्याघ्रपिशाचेभ्यस्ततो नो अभयं कृथि ॥ ९३
व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतस्सदा ।
पीडयन्ति पिशाचाद्याः ततो नो धेहि भेषजम् ॥९४
स्वदीयपादकमलध्यानवर्मितविग्रहान् ।
कुहका मोहका क्षुद्रा मास्मान्प्रापन्नरातयः ॥ ९५
धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया ।
देवसेनापतेस्माकमधरे सन्तु शत्रवः ॥९६

अरातिकुलनिर्मूलनालङ्कर्मीणविक्रम ।
अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु ॥ ९७
मन्त्रैर्यन्त्रैस्तथा तन्त्रैरौषधैरायुधैरपि ।
जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु ॥९८
आखण्डलारीनसुरांस्त्वन्तु स्पर्धावतो यथा।
जहि गाङ्गेय तौ मर्त्यौ यं चाह द्वेष्टि यश्च माम् ॥९९
त्वनामकीर्तनपरक्षेमङ्करकराम्बुज ।
तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः ॥१००