पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
स्कन्दवेदपादस्तवः

दैतेयवधसन्नद्धो भवात्पवनसारथिः।
द्विलक्षमर्वतो हैमे रथे युक्तवाधितिष्ठति ॥ ६९
गगनोच्छ्रितकोदण्डकिरीटं शूरमाहवे।
विभेदिथ त्वं नाराचैः सहस्रेण शतेन च ॥७०
ऐशाल्ललाटनयनाज्जातं वह्निर्यथारणेः ।
मुमुक्षवो गुहं ब्रह्म विचिन्वन्तु मनीषया ॥ ७१
हिरण्यज्योतिषं स्कन्दं याचध्वं भो वनीपकाः।
एषोऽर्थिनः पूरयति प्रजया च धनेन च ॥७२
सन्निधास्यति किं स्वामी भवानम्बुरुहेक्षणः ।
तावकं मञ्जुलं रूपं स्मर्यते न च दृश्यते ॥ ७३
यतः स्वं जगतामेषामाशिषे शिखिवाहन ।
ततो देहि बहून् श्रीहीनकृष्टा ये च कृष्टजाः ॥ ७४
धनधान्यगृहान् पुत्रान् देहि देव दयानिधे ।
त्वमाश्रितेष्टदत्वेन कर्णाभ्यां भूरि विश्रुवम् ॥७५
भक्तेभ्यो मुचुकुन्दाख्यप्रमुखेभ्यो यथा गुह ।
प्रादास्तथा देहि मह्यमच्युतां बहुलां श्रियम् ॥ ७६