पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


श्रुतिस्मृत्यागमायुक्तकर्मणां फलदायिने ।
स्कन्दाय तुभ्यं मखिभिः श्रद्धया हूयते हविः॥ ६१
मूर्धा द्यौरम्बरं नाभिरूरू भूरतलं पदे।
षण्मुखस्येत्येवमाहुरन्तर्विश्वमिदं जगत् ॥६२
भक्तसन्तापशमनप्रावृषेण्यघनाघनात् ।
स्कन्दादन्यं मनो मागा स्स दृष्टो मृडयाति नः ॥
जिह्वे त्वमुञ्चैर्निस्तन्द्रारात्रिन्दिवमभिष्टुहि ।
देवसेनं महासेनमदुग्धा इव धेनवः ॥ ६४
अकलङ्कशरच्चन्द्रविलसत्त्वन्मुखस्रुताः।
मन्दस्मितसुधाधारास्ता मे कृण्वन्तु भेषजम् ॥ ६५
देवानीजिमहे पूर्वं तपश्चकृमहे पुरा ।
यद्गुहो देवतास्माकं कविर्गृहपतिर्युवाम् ॥६६
मदीयहृदयाम्भोजनिर्यूहमणिमञ्चके।
षडाननत्वत्पादस्स्याद्यदि यान् प्रादेशसस्मितः॥६७
चिरन्तनवचस्तुत्यः प्रणवाम्बुजषट्पदः ।
करोतु देवसेनेशः शिवानः प्रदिशो दिशः ॥ ६८