पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

पङ्क्तिः । गुहस्स नः पातु विलोलदृष्टिर्येनावृतं खं च दिवे महीं च ॥१०

 करीन्द्रगुण्डायितदोःप्रकाण्डद्विषट्ककेयूरविराज- मानम् । गुहं मृडानीभवमप्रमेयं न चक्षुषा पश्यति कश्चनैनम् ॥११

 स्वकीयदोर्दण्डगृहीतचण्डकोदण्डनिर्मुक्तपृषत्कष- ण्डैः । त्रिविष्टपान्धंकरणैरशून्यान्यस्सप्त लोकान कृणोद्दिशश्च॥१२

 सौवर्णहारादिविभूषणोज्ज्वलन्मणिप्रभालीढवि शालवक्षाः । स्कन्दस्स मां पातु जिताब्जयोनिर- जायमानो बहुधा विजायते॥१३


 देवस्स वैहारिकवेषधारी लीलाकृताशेषजगद्वि- मर्दः । शिखिध्वजः पातु भयङ्करेभ्यो यस्सप्त सिन्धूनदधात्पृथिव्याम् ॥१४

 षडाननो द्वादशबाहुण्डः श्रुत्यन्तगामी द्विषडी-