पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
स्कन्दलहरी


प्ररोहत्कारुण्यामृतबहुलधाराभिरभित-
श्चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः॥
वृथा कर्तुं दुष्टान्विविधविषवेगान् शमयितुं
सुधारोचिष्कोटिप्रतिभटरुचिं भावयति यः।
अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरा-
द्विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥
प्रवालाभापूरे प्रसरति महस्ते जगदिदं
दिवं भूमिं काष्ठास्सकलमपि सञ्चिन्तयति यः।
द्रवीकुर्याञ्चेतस्त्रिदशनिवहानामपि सुखा-
द्भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥१८
नवाम्भोदश्यामं मरतकमणिप्रख्यमथवा
भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ ।
दिविष्ठानां भूमावपि विविधदेशेषु वसतां
नृणां देवानां वा वियति चरतां पतगफणिनाम् ॥
॥ इति स्कन्दलहरी सम्पूर्णा ॥