पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
स्कन्दलहरी

महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे
महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्वनु तमः ॥८
वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं
मिलत्कारुण्यार्द्रं मृदितभुवनार्तिस्मितमिदम् ।
पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं
दलद्दैन्यं भेदं हरतु सततं नः सुरगुरोः॥
अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन्
क्षितिस्तोयं वह्निः मरुदसि वियत्तत्त्वमखिलम् ।
पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां
धृतिस्त्वं व्याप्तस्सन् दिशसि निजसायुज्यपदवीम् ॥
सदात्मा त्वच्चित्तः त्वदनुभवबुद्धिस्मृतिपथ:
त्वदालोकस्सर्वं जगदिदमशेषं स्थिरचरम् ।
सदा योगी साक्षाद्भजति तव सारूप्यममलं
त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः ॥
कति ब्रह्माणो वा कति कमलनेत्रा: कति हरा:
कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः।