पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

शिवप्राप्त्यै सम्यक्फलितसदुपायप्रकटन
ध्रुवं तत्कारुण्ये कलिरपिः कृती भूतविभवः॥४
अशक्तानां कर्मस्वपि निखिलनिश्श्रेयसकृतौ
पशुग्रस्तानां पतिरसि विपाशत्वकलने ।
प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचा-
मशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥५
विषार्तानां हर्ता विषयिविषयाणां घटयिता
तृषार्तानां काले परममृतवर्षी घन इव ।
सृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो
विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥६
रसाधिक्यं भक्तेरधिकमधिकं वर्धय विभो
प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् ।
असारे संसारे सदसति न लिप्तं मम मनः
कुसीदं भूयान्मे कुशलवति निश्श्रेयसपथि ॥
महामोहारण्ये विचरति मनस्तनियमय-
न्नहन्तां निश्शेषीकुरु करुणया त्वं स्नपय माम् ।