पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
सुब्रह्मण्यभुजङ्गप्रयातम्

यदा ये पठन्ते भवन्तं तदैव
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥१६
अपारेऽतिदारिद्र्यपाथोधिमध्ये
भ्रमन्तं जनिग्राहपूर्णे नितान्तम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किञ्चित्प्रसीद प्रसीद ॥१७
स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चन्द्रतारं स्ववंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनःकल्पसाल॥१८
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥१९
नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।