पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

भवद्भक्तिनावोद्धर त्वं दयाळो
सुगत्यन्तरं नास्ति देव प्रसीद ॥१२
गळे रत्नभूषं तनौ मञ्जुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदैवं न मन्ये ।।
दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलम्बं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ १४
महासेन गाङ्गेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाऽहं विभो त्वाम् ॥
प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति