पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२५
सुब्रह्मण्यभुजङ्गप्रयातम्

सुबाहुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥८
शरारण्यसम्भूतमिन्द्रादिवन्द्यं
द्विषड्वाहुसङ्ख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ ९
विरिंचीन्द्र वल्लीशचीदेवेशमुख्य
प्रशस्तामरस्तोमसंस्तूयमान।
दिश त्वं दयाळो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥१०
पदाम्भोजसेवासमायातबृन्दारक-
श्रेणिकोटीरभास्वल्ललाटम् ।
कळत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यं त्वहीनप्रभावम् ॥११
भवाम्भोधिमध्ये तरङ्गे पतन्तं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।