पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

प्रयोगप्रदानप्रवाहैकदक्षं
भजे कान्तिकान्ताम्बरस्तोमरक्षम् ॥४
सुकस्तूरिकाबिन्दुभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाशगङ्गासुकूटम् ॥५
मुकुन्दप्रसूनावलीशोभितान्तं
शरत्पूर्णचन्द्रस्य षट्कान्तिकान्तम् |
शिरीषप्रसूनाभिरामं भवन्तं
भजे देवसेनापतिं वल्लभं तम् ॥६
सुलावण्यसत्सूर्यकोटिप्रकाशं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजार्कप्रभादीप्यमानाखिलाशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥७
अजं सर्वलोकप्रियं लोकनाथं
गुई शूरपद्मादिदम्भोळिधारम् ।