पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सिक्त्वा तु मामव कलाधरकान्तिकान्त्या
वल्लीसनाथ मम देहि करावलम्बम् ॥८
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥९
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय य: पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥१०
॥ सुब्रह्मण्याष्टकं सम्पूर्णम् ॥