पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम्॥
तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुद्यतः।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम्॥
दूर्वादळैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते॥
इति श्रीभविष्योत्तरपुराणे
॥विघ्नेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥