पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
सुब्रह्मण्यसहस्रनामस्तोत्रम्


इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १३२
स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात् सर्वात्मना ब्रह्मन् नियमेन जपेत्सुधीः ।।
इति श्रीस्कन्दपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
॥ सुब्रह्मण्यसहसहस्रनामस्तोत्रं संपूर्णम् ॥