पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
सुब्रह्मण्यसहस्रनामस्तोत्रम्

घटितैश्वर्यसन्दोहो घनार्थी घनसंक्रमः ।
चित्रकृत् चित्रवर्णश्च चञ्चलश्चपलद्युतिः ॥३६
चिन्मयश्चित्स्वरूपश्च चिदानन्दश्चिरंतनः ।
चित्रचेलश्चित्ररथश्चिन्तनीयश्चमत्कृतः॥३७
चोरघ्नश्चतुरश्चारुचामीकरविभूषणः ।
चन्द्रार्ककोटिसदृशश्चन्द्रमौळितनूभवः ॥३८
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ।
छेदीकृततमःक्लेशः छत्रीकृतमहायशाः ॥३९
छादिताशेषसन्तापश्चरितामृतसागरः।
छन्नत्रैगुण्यरूपश्च छातेहश्छिन्न संशयः ॥४०
छन्दोमयश्छन्नगामी छिन्नपाशश्छविच्छदः ।
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ॥ ४१
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ।
जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ॥४२
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः।
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः॥४३