पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
सुब्रह्मण्यसहस्रनामस्तोत्रम्

सुब्रह्मण्यसहस्रनामस्तोत्रम् १०१ काभ्यां नमः । भं कन्दर्पकोटिदीप्यमानाय द्विषड्- बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः । वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः । ओं शं ओंकारस्वरूपाय ओजोधराय ओज- स्विने नमस्संहृताय इष्टचित्तात्मने भास्वररूपाय हृदयाय नमः । रं षट्कोणमध्यनिलयाय षट्किरीट- धराय श्रीमते षडाधाराय शिरसे स्वाहा । हं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वौषट् । णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् । भं कन्दर्पकोटिदीप्य- मानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् । वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् । ओं भूर्भुवस्सुवरोमिति-दिग्बन्धः । ध्यानम्

ध्याये षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिकिरीटविलसत्केयूरहारान्वितम् ।