पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


इहामुत्र परं भोगं लभते नात्र संशयः ।। १३
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥१४

 ओं अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमाला- महामन्त्रस्य, ब्रह्मा ऋषि, अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता । शरजन्मा क्षय इति बीजम् । शक्तिधरः क्षयः कार्तिकेय इति शक्तिः । क्रौञ्चधर इतिकीलकम् । शिखिवाहन इति कवचम् । षण्मुखाय इति ध्यानम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने नमस्संहृताय इष्ट- चित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडा- धाराय तर्जनीभ्यां नमः ।हं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।णं कुशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामि-