पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ गणेशभुजङ्गम् ॥

रणत्क्षुद्रघण्टानिनादाभिरामं
चलताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे॥१
ध्वनिध्वंसवीणालयोलासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पर्सौगन्ध्यलोलिमालं
गणाधीशमीशानसूनुं तमीडे ॥२
प्रकाशज्जपारक्तरत्नप्रसून
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे॥३
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।