पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीविघ्नेश्वरषोडशनामस्त्रोत्रम्

सुमुखश्चैकन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूम्रकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः।
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

॥श्रीविघ्नेश्वरषोडशनामस्त्रोत्रम् समाप्तम् ॥