पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
६. १.
श्रीरङ्गरामानुजभाष्ययुक्ता

कृतवान् । किमिति'। (षोडशकलमिति) । हे भारद्वाजेति मां संबोध्याह'—‘प्राणाद्या नामान्ता:षोडश कलाः यस्य स षोडशकल: । तं पुरुषं जानासि किमिती ? त्यर्थः । तं राजकुमारमहमेवमुक्तवान् । त्वदुक्त पुरुषमहं न जानामि । यद्यहं जानीयां केन हेतुना ते राजकुमाराय योग्याय शिष्याय न कथयिष्यामीति । योऽनृतं ब्रूते सः मूलेन सह सर्वतः शुष्यति ! श्रेयोहेतुभूतं पुण्यं सर्वमेव' नश्यतीत्यर्थः । अतो मदत्ते त्वया अनृतशंका न कार्येति भाव । सः राजकुमारः तूष्णीं पक्षस्य प्रजोजनलेशं किमपि (?) मत्तोऽलब्ध्वैव रथमारुह्य' प्रवव्राज प्रकर्षेण गतः । अनेन स्वलज्जा सूचिता । रथेन प्रवव्राजेत्यनेन तस्य प्रभुत्वं सूचितं भवति । तमेव षोडशकलं पुरुषं पृच्छामि त्वां क्वासाविति । क प्रदेशे तिष्ठतीत्यर्थः । अत्रधारभूत देशप्रश्नद्वारा जीवो वा परमात्मा वेति निर्णयार्थोऽयं प्रश्न इति द्रष्टव्यम् ॥ १ ॥ अथ षष्ठःप्रश्नः स्वलज्जेति । ऋषिकुलभवस्य सर्वस्य षोडशकलेन पुरुषेण अवश्यं विदितेन भाव्यमिति राजकुमारस्य निश्चयः । तेन स राजकुमारः तं पुरुषं जिज्ञासमानः इमं भारद्वाज मुपेत्य पप्रच्छ । अयं प्रत्युवाच नाह तं वेदेति । अत्र राजकुमारस्य विश्वासो नाभूत । जानन्नेव अपह्रुत इति मेने । अत उपदेशाय निर्बबन्ध । भारद्वाजः परमार्थत एव तं पुरुषमजानन् महत् सङ्कटमनुभूय अन्ते आत्मानं शयन्निव साभिषङ्गमुवाच समूलो वा एष इत्यादि । ततः परं भारद्वाजो वस्तुतो न जानातीनि जातप्रत्ययोऽपि राजकुमारः तदज्ञानेन तस्मिन् अवज्ञामिव दर्शयन् आमन्त्रणमप्यकृत्वा झटिति ततोऽपागच्छत् । स्वप्रत्यक्षमपि राजकुमारप्रव्रजनं भारद्वाज परोक्षमिव भाषते ; तथा त्वरितं भारद्वाजाश्रमात् राजकुमारः प्रतिन्यवर्तत । अवज्ञाकार्य चैतत् । तेनास्य लङजेते । रथमारुह्येति । यदि पद्भयां गतः स्यात् किश्चिद् दूरमनुगम्य सम्भाव्य स्वदशामावेद्य स्वस्मिन् तस्यावज्ञां परिहर्तु कश्चिदवकाशो लब्धः स्यादपि । तत्तु नाभूत् । रथमारुह्य शीघ्रगैरुत्तमैरश्वैः निमेषमात्रेण चक्षुगोचरमतीत्य बहुदूरमध्वानं गत इति ।

तमेवेति । ये राजकुमारोऽपृच्छत्, यस्याज्ञानात् एवमहं तस्य अवमन्तव्य आसं तमेवेत्यर्थः । स्वकीयां परमामार्ति प्रदर्श्. पिप्पलादस्य महर्षेः स्वविषये कृपातिशयमुत्पादयितुमिच्छन् भारद्वाजः एवं वृत्तं कथयामासेति ज्ञेयम् ।

आधारभूतेति । 'षोडशकलं पुरुषं वेत्थ' इति राज्ञः प्रश्रः पुरुषविषयः । तद्विषय एव स्वप्रश्रोऽपीति भारद्वाज आह तं त्वा पृच्छामीति । एवं सति * कोऽसौ पुरुषः । इत्येवंरूपेण भाव्यं प्रश्नेन, न तु क्वासावित्येवंरूपेण । तस्मादसङ्गतमिदमिति न शङ्कनीयम् । तस्य स्थानं किम् ? किंस्थानकः सः ? इनि पुरुषप्रश्र एव पर्यवसानादिति भावः ।


1. अ. 'किमिति' नास्ति । 2. प्र. पू. “आह' नास्ति '। 3. आ. ना.पू 'सवासनं'।। 4. म. पू. स इत्यादि आरुहोत्यन्तं नास्ति । 5. प्र. 'स्वल्प' ।