सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ श्रीरङ्गरामानुजभाष्ययुक्ता [१. ८-९. मन्तव्यञ्च बुद्धिश्च बोद्धव्यश्चाहंकारचाहंकर्तव्यञ्च चित्तश्च चेत- यितव्यञ्च तेजश्च विद्योतयितव्यञ्च प्राणश्च विधारयितव्यञ्च ॥ ८॥ सर्वशब्दार्थं प्रपञ्चयति- पृथिवी चेत्यादिना । अत्र पृथिवीमात्रा- शब्देन पुराणेषु गन्धतन्मात्रशब्दाभिलप्या पृथिवीपूर्वावस्थोच्यते । एवमुत्तरेष्वपि मात्राशब्देषु द्रष्टव्यम् ॥ ८॥ आकाशमात्रा चेत्यन्तेन सकारणानि भूतान्युक्तानि । स्पर्शयितव्यं चेत्यन्तेन सविष- याणि ज्ञानेन्द्रियाणि रस्यतेऽनेनेति रसः रसना । गन्तव्यं चेत्यन्तेन कर्मेन्द्रियाणि । आनन्द- यितव्यं जीवात्मस्वरूपं उत्पादयितव्य आनन्दो वा । चेतयितव्यं चेत्यन्तेन विविधाकारं मनः । अहङ्कारः अहमभिमानहेतुः । अहङ्कार्तव्य तद्विषयः यद्वा सोऽभिमान एव। तेजश्चेति आत्मज्योतिषः प्रभास्थानापन्नं यद् धर्मभूतज्ञानं तदभिसंहितमिति भाति । अन्यस्येह सङ्गत्यभावात् । विधार- यितव्यं शरीरम् । विधारयितव्यं चेत्येतत् सर्वे पर आत्मनि सम्प्रतिष्ठित इति पूर्वेणान्वयः । अत्र चक्षुरादीनां सम्प्रतिष्ठा संश्लेषविशेषः । द्रष्टव्यादीनां तु अत्यन्तमगृह्यमाणत्वमेवेति बोध्यम् । अथवा तत्स्वरूपमपि तदाश्रितमेवेति । एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता, बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥ एष हि द्रष्टेत्यादि । चेतनाचेतनरूपः कर्तृकरणकर्मरूपः सर्वोऽपि प्रपञ्चस्तदाश्रित इति भावः । अत्र बोद्धा कर्ता विज्ञानात्मेति निर्देशादात्मनो ज्ञातृत्वमेव न ज्ञानरूपत्वमिति वदन्तस्तार्किकाश्च ज्ञानत्वमेव न ज्ञातृत्वमिति वदन्तो मृषावादिनश्च निरस्ता भवन्ति ॥ ९॥ शरीरेन्द्रियमनःप्राणानां सम्प्रतिष्ठायामभिहितायां अद्य जीवात्मनः सम्प्रतिष्ठा वक्तव्या उच्यते। तत्र कुतः स द्रष्टा स्प्रष्टेति बह्नाकारो निर्दिश्यत इति शङ्कां परिहरन्नाह-चेतना- चेतनेति । द्रष्टेत्यादिना बाह्यज्ञानन्द्रियकरणकत्वमुक्तम् । मन्ता बोद्धा कर्तेति मनःकरणकत्वम् । पुरुष इति भूतारधशरीरविशिष्टत्वम् । विज्ञानेति ज्ञातृत्वम् । तथाच न परमुक्तरीत्या पृथिव्या- दीनि, तैरुपकरणैर्थ उपक्रियते स करणाधिप आत्माऽपि तस्मिन् पर आत्मनि सम्प्रतिष्टत हत्यविशेषेण सर्वाश्रयत्वं वक्तुमेवं विशिष्टनिर्देश इति भावः । 'एष विज्ञानात्मा पुरुष: पर आत्मनि सम्प्रतिष्टते ' इत्येकवाक्यतामकृत्वा एष हि विज्ञानात्मा. पुरुषः अस्ति । स पर आत्मनि...' इति पृथग्वाक्यार्थतया निर्देशोऽपि तस्येतरेभ्यः प्राधान्यं व्यज्य ततोऽपि प्राधान्यं परमात्मनो व्यञ्जयितुमेवेति ज्ञेयम् । 1. मा. भेषवादिनम' (१) । प्र. चकाते नास्ति।