पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
प्रपञ्चसारे


त्रिपादोनौ मीनमेषौ संख्योक्ता राशिसंश्रिता ।
चापो नौरगयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ ३९
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ।
चरा वशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४०
स्युः कर्कटो वृश्चिकमीनराशी विप्रा नृपाः सिंहधनुश्च मेष: ।
तुला सकुम्भा मिथुनञ्च वैश्याः कन्यावृषौ द्वौ मकरश्च शूद्राः ॥ ४१
आङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके
बौधे कर्कटकाह्वयो हिमरुचेः सिंहस्तथा गोपतेः ।
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः
प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो दर्शितः ॥ ४२
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादश राशयः ॥ ४३
ततस्तदूर्ध्वभागस्थो भुवश्चक्रः समस्तथा ।
स तु सिंहादिको यस्मिन् पैतृकी नियता गतिः ॥ ४४